श्रीपाद्श्रीवाल्लभ त्वं सदैव, श्रीदत्तास्मान्पाहि देवाधिदेव I
भावग्राह्य क्लेशहारिन्सुकीर्ते घोरात्कष्ट्दुद्धारास्मान्नमस्ते II १ II
त्वं नो माता त्वं पिताSSप्तोSधिपस्त्वम्
त्राता योगक्शेमक्रुत्सद्गुरुस्त्वम् I
त्वम् सर्वस्वम् नः प्रभो विश्वमूर्ते घोरात्कष्ट्दुद्धारास्मान्नमस्ते II २ II
पापं तापं व्याधिमाधिं च दैन्यं , भीतिं क्लेशं त्वं हराSशु , त्वदन्यम् I
त्रातारं नो बीक्ष ईर्शास्तजूर्ते , घोरात्कष्ट्दुद्धारास्मान्नमस्ते II ३ II
नान्यस्त्राता नापि दाता न भर्ता, त्वत्तो देव त्व्म शरन्योsघर्ता
नान्यस्त्राता नापि दाता न भर्ता, त्वत्तो देव त्व्म शरन्योsघर्ता I
कुर्वात्रेयनुग्रहं , पूर्णराते , घोरात्कष्ट्दुद्धारास्मान्नमस्ते II ४ II
धर्मे प्रीतिं संन्मतिं देवभक्तिं, सत्सन्गाप्तिं देहि मुक्तिं च भुक्तिं I
भावसक्तिं चाखिलआनन्दमूर्ते, घोरात्कष्ट्दुद्धारास्मान्नमस्ते II ५ II
श्लोकपंचकमेत कमेतध्यो लोकमंगलवर्धनम् I
प्रपठेन्नियतो भक्त्या स श्री दत्त प्रियो भवेत II ६II
इति श्रीमदवासुदेवानंदसरस्वतीकृत – धोराकष्टोद्धरणस्तोत्रं संपूर्णम्
